उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ।महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति॥
तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह।प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात्॥
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः।भरद्वाजो महातेजा रामं सत्यपराक्रमम्॥
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ।कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम्॥
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम्।तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ।तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्॥
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्।विवृद्धं बहुभिवृक्षैः श्यामं सिद्धोपसेवितम्।तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः॥
समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा॥
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्।पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः॥
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया।रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः॥
इति पन्थानमावेद्य महर्षिः संन्यवर्तत।अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः॥
उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत्।कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते॥
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ।सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्॥
अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम्।चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः॥
तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम्।शुष्कैर्वंशैः समास्तीर्णमुशीरैश्च समावृतम्॥
ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान्।चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम्॥
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्।ईषत्संलज्जमानां तामध्यारोपयत प्लवम्॥
पार्श्वे च तत्र वैदेह्या वसने भूषणानि च।प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः॥
आरोप्य प्रथमं सीतां संघाटं परिगृह्य तौ।ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ॥
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत।स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम्॥
यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च।स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम्॥
कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः।तीरमेवाभिसंप्राप्ता दक्षिणं वरवर्णिनी॥
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्।तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम्॥
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात्।श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम्॥
न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत्।नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम्॥
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम्।इति सीताञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम्॥
अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम्।दयितां च विधेयां च रामो लक्ष्मणमब्रवीत्॥
सीतामादाय गच्छ त्वमग्रतो भरताग्रज।पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर॥
यद्यत्फलं प्रार्थयते पुष्प वा जनकात्मजा।तत्तत्प्रदद्या वैदेह्या यत्रास्या रमते मनः॥
गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा।मातङ्गयोर्मध्यगता शुभा नागवधूरिव।।
एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम्।अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ साबला॥
रमणीयान्बहुविधान्पादपान्कुसुमोत्कटान्।सीतावचनसंरब्ध आनयामास लक्ष्मणः॥
विचित्रवालुकजलां हंससारसनादिताम्।रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम्॥
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ।बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने॥
विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते।समं नदीवप्रमुपेत्य संमतं निवासमाजग्मुरदीनदर्शनाः॥