एवमुक्त्वा तु विरते रामे वचनमर्थवत्।ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम्।उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम।न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत्॥
संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्॥
यथा मृतस्तथा जीवन्यथासति तथा सति।यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः॥
परावरज्ञो यश्च स्याद्यथा त्वं मनुजाधिप।स एवं व्यसनं प्राप्य न विषीदितुमर्हति॥
अमरोपमसत्त्वस्त्वं महात्मा सत्यसङ्गरः।सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव॥
न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम्।अविषह्यतमं दुःखमासादयितुमर्हति।एवमुक्त्वा तु भरतो रामं पुनरथाब्रवीत्॥
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम्।क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम॥
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम्॥
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः।जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम्॥
गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च।तातं न परिगर्हेयं दैवतं चेति संसदि॥
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम्।स्त्रियाः प्रियं चिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित्॥
अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः।राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता॥
साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात्।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्॥
पितुर्हि यदतिक्रान्तं पुत्रो यः साधु मन्यते।तदपत्यं मतं लोके विपरीतमतोऽन्यथा॥
तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः।अति यत्तत्कृतं कर्म लोके धीरविगर्हितम्॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः।पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान्॥
क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम्।ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति।।
एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम्।येन शक्यं महाप्राज्ञ प्रजानां परिपालनम्॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम्।आयतिस्थं चरेद्धर्मं क्षत्रबन्धुरनिश्चितम्॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि।धर्मेण चतुरो वर्णान्पालयन्क्लेशमाप्नुहि।।
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्।प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि॥
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्।स कथं पालयिष्यामि भूमिं भवति तिष्ठति॥
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम्।भवता च विनाभूतो न वर्तयितुमुत्सहे॥
इदं निखिलमप्यग्र्यं राज्यं पित्र्यमकण्टकम्।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः॥
इहैव त्वाभिषिञ्चन्तु सर्वाः प्रकृतयः सह।ऋत्विजः सवसिष्ठाश्च मन्त्रविन्मन्त्रकोविदाः॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज।विजित्य तरसा लोकान्मरुद्भिरिव वासवः॥
ऋणानि त्रीण्यपाकुर्वन्दुर्हृदः साधु निर्दहन्।सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम्॥
अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने।अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ।अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात्॥
शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः॥
अथैतत्पृष्ठतः कृत्वा वनमेव भवानितः।मिष्यति गमिष्यामि भवता सार्धमप्यहम्॥
तथा हि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः।न चैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने व्यवस्थितः॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः।न यात्ययोध्यामिति दुःखितोऽभवत्स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः॥
तमृत्विजो नैगमयूथवल्लभास्तदा विसंज्ञाश्रुकलाश्च मातरः।तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह॥