सन्दिश्य रामं नृपतिः श्वो भाविन्यभिषेचने।पुरोहितं समाहूय वसिष्ठं चेदमब्रवीत्॥
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्॥
तथेति च स राजानमुक्त्वा वेदविदां वरः।स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम्॥
उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः।ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः॥
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्।तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः॥
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमः।मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात्॥
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः।ततोऽवतारयामास परिगृह्य रथात्स्वयम्॥
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च।प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः॥
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि।उपवासं भवानद्य करोतु सह सीतया॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।पिता दशरथः प्रीत्या ययातिं नहुषो यथा॥
इत्युक्त्वा स तदा राममुपवासं यतव्रतम्।मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः॥
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः।अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्॥
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥
हृष्टनारीनरयुतं रामवेश्म तदा बभौ।यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः॥
स राजभवनप्रख्यात् तस्माद्रामनिवेशनात्।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्॥
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः।बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः॥
जनवृन्दोर्मिसङ्घर्षहर्षस्वनवतस् तदा।बभूव राजमार्गस्य सागरस्येव निस्वनः॥
सिक्तसम्मृष्टरथ्या हि तद् अहर्वनमालिनी।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा॥
तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः।रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः॥
प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम्।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्॥
एवं तं जनसम्बाधं राजमार्गं पुरोहितः।व्यूहन्निव जनौघं तं शनै राजकुलं ययौ॥
शुभ्राभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः।समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत्॥
तेन चैव तदा तुल्यं सहासीनाः सभासदः।आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्॥
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव॥
तदग्र्यरूपं प्रमदागणाकुलं महेन्द्रवेश्मप्रतिममं निवेशनम्।विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसङ्कुलं नभः॥