शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम्।
वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्॥
लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः।
दान्तराजतसौवर्णवेदिकाभिः समायुतम्॥
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम्।
दान्तराजतसौवर्णैः संवृतं परमासनैः॥
विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि।
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम्॥
तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्।
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे॥