अभिवाद्य च कौसल्यां रामः सम्प्रस्थितो वनम्।कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥
विराजयन्राजसुतो राजमार्गं नरैर्वृतम्।हृदयान्याममन्थेव जनस्य गुणवत्तया॥
वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी।तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्॥
देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना।अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते॥
प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम्।प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः॥
अथ सीता समुत्पत्य वेपमाना च तं पतिम्।अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम्॥
तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्।तं शोकं राघवः सोढुं ततो विवृततां गतः॥
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो॥
अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः॥
न ते शतशलाकेन जलफेननिभेन च।आवृतं वदनं वल्गु छत्रेणापि विराजते॥
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्॥
वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ।स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूतमागधाः॥
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।मूर्ध्नि मूर्धाभिषिक्तस्य दधति स्म विधानतः॥
न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः।अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा॥
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषितैः।मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः॥
न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः।प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः॥
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन।भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम्॥
अभिषेको यथा सज्जः किमिदानीमिदं तव।अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते॥
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।सीते तत्रभवांस्तातः प्रव्राजयति मां वनम्॥
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि।शृणु जानकि येनेदं क्रमेणाभ्यागतं मम॥
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च।कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ॥
तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते।प्रचोदितः ससमयो धर्मेण प्रतिनिर्जितः॥
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया।पित्रा मे भरतश्चापि यौवराज्ये नियोजितः॥
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्।भरतस्य समीपे तु नाहं कथ्यः कदाचन॥
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम॥
नापि त्वं तेन भर्तव्या विशेषेण कदाचन।अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम्॥
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः॥
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्।वनमद्यैव यास्यामि स्थिरा भव मनस्विनी॥
याते च मयि कल्याणि वनं मुनिनिषेवितम्।व्रतोपवासपरया भवितव्यं त्वयानघे॥
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।वन्दितव्यो दशरथः पिता मम नरेश्वरः॥
माता च मम कौसल्या वृद्धा सन्तापकर्शिता।धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति॥
वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।स्नेहप्रणयसम्भोगैः समा हि मम मातरः॥
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम॥
विप्रियं न च कर्तव्यं भरतस्य कदाचन।स हि राजा प्रभुश्चैव देशस्य च कुलस्य च॥
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये॥
स्पृशन्निव गजो हन्ति जिघ्रन्निव भुजङ्गमः।स्मयन्निव नृपो हन्ति मानयन्निव दुर्जनः॥
औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः।समर्थान्सम्प्रगृह्णन्ति जनानपि नराधिपाः॥
सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी।भरतस्य रता धर्मे सत्यव्रतपरायणा॥
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि।यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम॥