अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि।वन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम्॥
सूताः परमसंस्कारा मङ्गलाश्चोत्तमश्रुताः।गायकाः स्तुतिशीलाश्च निगदन्तः पृथक्पृथक्॥
राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम्।प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत॥
ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः।अपदानान्युदाहृत्य पाणिवादानवादयन्॥
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः।शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः॥
व्याहृताः पुण्यशब्दाश्च वीणानां चापि निःस्वनाः।आशीर्गेयं च गाथानां पूरयामास वेश्म तत्॥
ततः शुचिसमाचाराः पर्युपस्थानकोविदाः।स्त्रीवर्षधरभूयिष्ठा उपतस्थुर्यथापुरम्।।
हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः।आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि॥
मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्।उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः॥
सर्वलक्षणसंपन्नं सर्वं विधिवदर्चितम्।सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम्॥
तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम्।तस्थावनुपसंप्राप्तं किंस्विदित्युपशङ्कितम्॥
अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः।ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्॥
तथाप्युचितवृत्तास्ता विनयेन नयेन च।न ह्यस्य शयनं स्पृष्ट्वा किंचिदप्युपलेभिरे॥
ताः स्त्रियः स्वप्नशीलज्ञाश्चेष्टासञ्चचलनादिषु।ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः।प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे॥
अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम्।यत्तदाशङ्कितं पापं तदा जज्ञे विनिश्चयः॥
कौसल्या च सुमित्रा च पुत्रशोकपराजिते।प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते॥
निष्प्रभा च विवर्णा च सन्ना शोकेन संनता।न व्यराजत कौसल्या तारेव तिमिरावृता॥
कौसल्यानन्तरं राज्ञः सुमित्रा तदनन्तरम्।न स्म विभ्राजते देवी शोकाश्रुलुलितानना॥
ते च दृष्ट्वा तदा सुप्ते उभे देव्यौ च तं नृपम्।सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत॥
ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः।करेणव इवारण्ये स्थानप्रच्युतयूथपाः॥
तासामाक्रन्दशब्देन सहसोद्गतचेतने।कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः॥
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम्।हा नाथेति परिक्रुश्य पेततुर्धरणीतले॥
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले।न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता॥
नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि।अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव॥
ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः।रुदन्त्यः शोकसंतप्ता निपेतुर्गतचेतनाः॥
ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः।येन स्थिरीकृतं भूयस्तद्गृहं समनादयत्॥
तत्समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम्।सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्॥
सद्यो निपतितानन्दं दीनविक्लवदर्शनम्।बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः॥
अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं संपरिवार्य पत्नयः।भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत्॥