ततो निर्धूय सहसा शिरो निश्वस्य चासकृत्।पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाप्य च॥
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।कोपाभिभूतः सहसा सन्तापमशुभं गतः॥
मनः समीक्षमाणश्च सूतो दशरथस्य सः।कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः॥
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः।कैकेय्याः सर्वमर्माणि सुमत्रः प्रत्यभाषत॥
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्।भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च।न ह्यकार्यतमं किंचित्तव देवीह विद्यते॥
पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः॥
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः॥
मावमंस्था दशरथं भर्तारं वरदं पतिम्।भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते॥
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।इक्ष्वाकुकुलनाथेऽस्मिंस्तल्लोपयितुमिच्छसि॥
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्।वयं तत्र गमिष्यामो यत्र रामो गमिष्यति॥
न हि ते विषये कश्चिद्व्राह्मणो वस्तुमर्हति।तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि॥
अयोध्यावासिनः पौराये च जानपदा जनाः।नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्॥
त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा।का प्रीती राज्यलाभेन तव देवि भविष्यति।तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि॥
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।आचरन्त्या न विवृता सद्यो भवति मेदिनी॥
महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः।धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्॥
आम्रं छित्त्वा कुठारेण निबं परिचरेत्तु यः।यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्॥
अभिजातं हि ते मन्ये यथा मातुस्तथैव च।न हि निंबात्स्रवेत्क्षौद्रं लोके निगदितं वचः॥
तव मातुरसद्ग्राहं विद्मः पूर्वं यथा श्रुतम्॥
पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम्।सर्वभूतरुतं तस्मात्संजज्ञे वसुधाधिपः।तेन तिर्यग्गतानां च भूतानां विदितं वचः॥
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः।पितुस्ते विदितो भावः स तत्र बहुधाहसत्।।
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्॥
नृपश्चोवाच तां देवीं देवि शंसामि ते यदि।ततो मे मरणं सद्यो भविष्यति न संशयः॥
माता ते पितरं देवि ततः केकयमब्रवीत्।शंस मे जीव वा मा वा न मामपहसिष्यसि॥
प्रियया च तथोक्तः सन्केकयः पृथिवीपतिः।तस्मै तं वरदायार्थं कथयामास तत्त्वतः॥
ततः स वरदः साधू राजानं प्रत्यभाषत।यदि त्वं शंससे राजन्मरणं ते ध्रुवं भवेत्।म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते॥
स तच्छुत्वा वचस्तस्य प्रसन्नमनसो नृपः।मातरं ते निरस्याशु विजहार कुवेरवत्॥
तथा त्वमपि राजानं दुर्जनाचरिते पथि।असद्ग्राहमिमं मोहात्कुरुषे पापदर्शिनि॥
सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा।पितृन्समनुजायन्ते नरा मातरमङ्गनाः॥
नैवं भव गृहाणेदं यदाह वसुधाधिपः।भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव॥
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्।भर्तारं लोकभर्तारमसद्धर्ममुपादधाः॥
न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः।श्रीमान्दशरथो राजा देवि राजीवलोचनः॥
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता।रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्॥
परिवादो हि ते देवि महाँल्लोके चरिष्यति। यदि रामो वनं याति विहाय पितरं नृपम्॥
स राज्यं राघवः पातु भव त्वं विगतज्वरा।न हि ते राघवादन्यः क्षमः पुरवरे वसेत्॥
रामे हि यौवराज्यस्थे राजा दशरथो वनम्।प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्॥
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि।सुमत्रः क्षोभयामास भूय एव कृताञ्जलिः॥
naiva sā kṣubhyate devī na ca sma paridūyatena cāsyā mukha-varṇasya vikriyā lakṣyate tadā