अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥
निवर्तितेऽपि च बलात्सुहुद्वर्गे च राजनि।नैव ते सन्न्यवर्तन्त रामस्यानुगता रथम्॥
अयोध्यानिलयानां हि पुरुषाणां महायशाः।बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः॥
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा।कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत॥
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव॥
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्॥
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।करिष्यति यथावद्वः प्रियाणि च हितानि च॥
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।अनुरूपः स वो भर्ता भविष्यति भयापहः॥
स हि राजगुणैर्युक्तो युवराजः समीक्षितः।अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्॥
न च तप्येद्यथा चासौ वनवासं गते मयि।महाराजस्तथा कार्यो मम प्रियचिकीर्षया॥
यथा यथा दाशरर्थिधर्म एव स्थितोऽभवत्।तथा तथा प्रकृतयो रामं पतिमकामयन्॥
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।चकर्षेव गुणैर्बध्वा जनं पुरनिवासिनम्॥
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।वयःप्रकम्पशिरसो दुरादूचुरिदं वचः॥
वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः।निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि॥
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः॥
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।उप वाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम्॥
एवमार्तप्रलापंस्तान्वृद्धान्प्रलपतो द्विजान्।अवेक्ष्य सहसा रामो रथादवततार ह॥
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः।
सन्निकृष्टपदन्यासो रामो वनपरायणः॥
द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः।न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः॥
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेत॑सः।ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः॥
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति।द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी॥
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः।पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये॥
अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते।एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः॥
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।त्वत्कृते सा कृता वत्स वनवासानुसारिणी॥
हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम्।वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः॥
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः।त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम्॥
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।शिरोभिर्निभृताचार महीपतनपांसुलैः॥
बहूनां वितता यज्ञा द्विजानां य इहागताः।तेषां समाप्तिरायत्ता तव वत्स निवर्तने॥
भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च।याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय॥
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः।उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥
निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः।पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्॥
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।ददृशे तमसा तत्र वारयन्तीव राघवम्॥
ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान्हयान्सम्परिवर्त्य शीघ्रम्।पीतोदकांस्तोयपरिप्लुताङ्गानचारयद्वै तमसाविदूरे॥