ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।सबाष्पमतिनिश्वस्य जगादेदं पुनः पुनः॥
सूत रत्नसुसम्पूर्णा चतुर्विधवला चमूः।राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्॥
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः।शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः॥
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय॥
आयुधानि च मुख्यानि नागराः शकटानि च।अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचराः॥
निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु।नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति॥
धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः।तौ राममनुगच्छेतां वसन्तं निर्जने वने॥
यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने॥
भरतश्च महाबाहुरयोध्यां पालयिष्यति।सर्वकामैः सह श्रीमान्रामः संसाध्यतामिति॥
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्।मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत॥
सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता।राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्॥
राज्यं गतजनं साधो पीतमण्डां सुरामिव।निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते॥
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।राजा दशरथो वाक्यमुवाचायतलोचनाम्॥
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते।अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः॥
तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गनी।कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्॥
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्।असमञ्ज इति ख्यातं तथायं गन्तुमर्हति॥
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्।ब्रीडितश्च जनः सर्वः सा च तं नावबुध्यत॥
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः।शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्॥
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्।सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः॥
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्।असमञ्जं वृणीष्वैकमस्मान्वा राष्ट्रवर्धन॥
तानुवाच ततो राजा किंनिमित्तमिदं भयम्।ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥
क्रीडतस्त्वेष नः पुत्रान्वालानुद्भ्रान्तचेतनः।सरय्वां प्रक्षिपन्मौख्यार्दतुलां प्रीतिमश्नुते॥
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः।तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया॥
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्।यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता॥
स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत्।दिशः सर्वास्त्वनुचरन्स यथा पापकर्मकृत्॥
इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः।रामः किमकरोत्पापं येनैवमुपरुध्यते।।
न हि कञ्चन पश्यामो राघवस्यागुणं वयम्।दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्॥
अथ वा देवि दोषं त्वं कञ्चित्पश्यसि राघवे।तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम्॥
अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च।निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात्॥
तदलं देवि रामस्य श्रिया विहतया त्वया।लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने॥
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः।शोकोपहतया वाचा कैकेयीमिदमब्रवीत्।।
एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा।आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता॥
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च।सहैव राज्ञा भरतेन च त्वं यथासुखं भुङुक्ष्व चिराय राज्यम्॥