रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्।समीक्ष्य सह भार्याभी राजा विगतचेतनः॥
नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम्।न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः॥
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः।विललाप महाबाहू राममेवानुचिन्तयन्॥
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः।प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम्॥
न त्वेवानागते काले देहाच्च्यवति जीवितम्।कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते॥
योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम्।विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्॥
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः।स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्॥
एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्षणः।रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह॥
संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः।नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्॥
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः।प्रापयैनं महाभागमितो जनपदात्परम्॥
एवं मन्ये गुणवतां गुणानां फलमुच्यते।पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्॥
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः।योजयित्वाययौ तत्र रथमश्वैरलङ्कृतम्॥
तं रथं राजपुत्राय सूतः कनकभूषितम्।आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः॥
राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये।उवाच देशकालज्ञं निश्चितं सर्वतः शुचिम्॥
वासांसि च महार्हाणि भूषणानि वराणि च।वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय॥
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः।प्रायच्छत्सर्वमाहत्य सीतायै सममेव तत्॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः॥
व्यराजयत वैदेही वेश्म तत्सुविभूषिता।उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः॥
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्।अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्॥
असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः।भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः॥
एष स्वभावो नारीणामनुभूय पुरा सुखम्।अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि॥
असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा।युवत्यः पापसङ्कल्पाः क्षणमात्राद्विरागिणः॥
न कुलं न कृतं विद्यां न दत्तं नापि सङ्ग्रहम्।स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः॥
साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे।स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते॥
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम।तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा॥
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्।कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम्॥
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्।अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे॥
न मामसज्जनेनार्या समानयितुमर्हति।धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा॥
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः।नापतिः सुखमेधेत या स्यादपि शतात्मजा॥
मितं ददाति हि पिता मितं माता मितं सुतः।अमितस्य हि दातारं भर्तारं का न पूजयेत्॥
साहमेवंगता श्रेष्ठा श्रुतर्धर्मपरावरा।आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम्॥
सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम्।शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्॥
तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम्।रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्॥
अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम।क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति॥
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च।सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्॥
एतावदभिनीतार्थमुक्त्वा स जननीं वचः।त्रयः शतशतार्धाश्च ददर्शावेक्ष्य मातरः॥
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः।धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः॥
संवासात्परुषं किञ्चिदज्ञानाद्वापि यत्कृतम्।तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः॥
वचनं राघवस्यैतद्धर्मयुक्तं समाहितम्।शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः॥
जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः।मानवेन्द्रस्य भार्याणामेवं वदति राघवे॥
मुरजपणवमेघघोषवद्दशरथवेश्म बभूव यत्पुरा।विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम्॥