आश्रमं प्रतियाते तु खरे खरपराक्रमे।तानेवोत्पातिकान्रामः सह भ्रात्रा ददर्श ह॥
तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान्।प्रजानामहितान्दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्॥
इमान्पश्य महाबाहो सर्वभूतापहारिणः।समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान्॥
अमी रुधिरधारास्तु विसृजन्तः खरस्वनान्।व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः॥
सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः।रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण॥
यादृशा इह कूजन्ति पक्षिणो वनचारिणः।अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च॥
सम्प्रहारस्तु सुमहान्भविष्यति न संशयः॥
अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः।सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम्॥
सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते।उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण।निष्प्रभं वदनं तेषां भवत्यायुःपरिक्षयः॥
रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः।आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः॥
अनागतविधानं तु कर्तव्यं शुभमिच्छता।आपदं शङ्कमानेन पुरुषेण विपश्चिता॥
तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः।गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम्॥
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया।शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्।।
त्वं हि शूरश्च बलवान्हन्या ह्येतान्न संशयः।स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान्॥
एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया।शरानादाय चापं च गुहां दुर्गां समाश्रयत्॥
तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया।हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्॥
स तेनाग्निनिकाशेन कवचेन विभूषितः।बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः॥
स चापमुद्यम्य महच्छरानादाय वीर्यवान्।बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः॥
ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः।समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः॥
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः।समेत्य चोचुः सहिता अन्योन्यं पुण्यकर्मणः॥
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।जयतां राघवो युद्धे पौलस्त्यान्रजनीचरान् ॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्।वमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम्॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति।।
इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः।जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः॥
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम्। दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा॥
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः।बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः॥
इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः।ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्।अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत्॥
सिंहनादं विसृजतामन्योन्यमभिगर्जताम्।चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः॥
विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्। तेषां सुतुमुलः शब्दः पूरयामास तद्वनम्॥
तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः।दुद्रुवुर्यत्र निःशब्दं पृष्ठतो न व्यलोकयन्॥
तत्त्वनीकं महावेगं रामं समुपसर्पत।धृतनानाप्रहरणं गम्भीरं सागरोपमम्॥
रामोपि चारयंश्चक्षुः सर्वतो रणपण्डितः।ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम्॥
वितत्य च धनुर्भीमं तूण्योश्चोद्धृत्य सायकान्।क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्॥
दुष्प्रेक्षः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्।तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः॥
तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा।दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः॥
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम्।दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः॥
तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः।बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रवृन्दम्॥