तथा तु विलपन्तीं तां कौसल्यां राममातरम्।उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥
न रोचते ममाप्येतदार्ये यद्राघवो वनम्।त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः।।
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।नृपः किमिव न ब्रूयच्चोद्यमानः समन्मथः॥
नास्यापराधं पश्यामि नापि दोषं तथाविधम्।येन निर्वास्यते राष्ट्राद्वनवासाय राघवः॥
अहं हनिष्ये पितरं वृद्धं कामवशं गतम्।स्त्रिया युक्तं च निर्लज्जं धर्मायुक्तं नृपं यथा॥
न तं पश्याम्यहं लोके परोक्षमपि यो नरः।स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्॥
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्।अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात्॥
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्॥
यावदेव न जानाति कश्चिदर्थमिमं नरः।तावदेव मयासार्धमात्मस्थं कुरु शासनम्॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव।कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ। करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये॥
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति।सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते॥
प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता।अमित्रभूतो निःसङ्गं बध्यतां वध्यतामपि॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥
बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ।दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव॥
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्।कस्य शक्तिः श्रियं दातुं भरतायारिशासन॥
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः।सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे॥
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति। प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय॥
हरामि वीर्यादुःखं ते तमः सूर्य इवोदितः।देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु॥
हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्।कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्॥
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।उवाच रामं कौसल्या रुदन्ती शोकलालसा॥
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया।यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते॥
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः॥
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि।शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्॥
शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन्।परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः॥
येथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।त्वां नाहमनुजानामि न गन्तव्यमितो वनम्॥
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा।त्वया सह मम श्रेयस्तुणानामपि भक्षणम्॥
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्॥अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम्॥
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्।ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः॥
विलपन्तीं तदा दीनां कौसल्यां जननीं ततः।उवाच रामो धर्मात्मा वचनं धर्मसंहितम्॥
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्।।
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा।गौर्हता जानताधर्मं कण्डुनापि विपश्चिता॥
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः।खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः॥
जामदग्नयेन रामेण रेणुका जननी स्वयम्।कृत्ता परशुनारण्ये पितृर्वचनकारिणा॥
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्।पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्॥
न खल्वेतन्मयैकेन क्रियते पितृशासनम्।एतैरपि कृतं देवि ये मया तव कीर्तिताः॥
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये।पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते॥
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा।पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते॥
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्॥
मम मातुर्महद्दुःखमतुलं शुभलक्षण।अभिप्रायमविज्ञाय सत्यस्य च शमस्य च॥
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम्॥
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा॥न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता॥
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम्।पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः॥
तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्।धर्ममाश्रय मा तैक्ष्ण्यं मद्वुद्धिरनुगम्यताम्॥
तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः।उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः॥
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे॥
तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम्।ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥
शोकः सन्धार्यतां मातर्हृदये साधु मा शुचः।वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः॥
अम्ब संहृत्य सम्भारान्दुःखं हृदि निगृह्य च।वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्येताम्॥
एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च।मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच॥
यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च।न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम्॥
किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयामृतेन।श्रेयो मुहूर्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात्॥
नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः।भूयः प्रजज्वाल विलापमेनं निशम्य रामः करुणं जनन्याः॥
स मातरं चैव विसंज्ञकल्पामार्तं च सौमित्रिमभिप्रतप्तम्।धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम्॥
अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च।मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम्॥
धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफलोदयेषु।ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सुपुत्रा॥
यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यतः स्यात्तदुपक्रमेत।द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता॥
गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षाद्यदि वापि कामात्॥यव्द्यादिशेत्कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्तिः॥
स वै न शक्नोमि पितुः प्रतिज्ञामिमामकर्तुं सकलां यथावत्॥स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिः स धर्मः॥
तस्मिन्पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने।देवी मया सार्धमितोऽपगच्छेत्कथंस्विदन्या विधवेव नारी॥
सा मानुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि।यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः॥
यशो ह्यहं केवलराज्यकारणान्न पृष्ठतः कर्तुमलं महोदयम्।अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः।।
प्रसादयन्नरवृषभः स्वमातरं पराक्रमाज्जिगमिषुरेव दण्डकान्।अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्॥