निदर्शयित्वा रामाय सीतायाः प्रतिपादने।वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्॥
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः।प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः॥
जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः।अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः॥
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः।नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः।अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः॥
तानारुह्याथवा भुमौ पातयित्वा च तान्बलात्।फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः॥
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्।नन्दनप्रतिमं चान्यत्कुरवो ह्युत्तरा इव॥
सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः।सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा॥
फलभारान तास्तत्र महाविटपधारिणः।शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः॥
तानारुह्याथवा भूमौ पातयित्वा यथासुखम्।फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति॥
चङ्क्रमन्तौ वरान्देशाञ्शैलाच्छैलं वनाद्वनम्।ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः॥
अशर्करामविभ्रंशां समतीर्थामशैवलाम्।राम सञ्जातवालूकां कमलोत्पलशालिनीम्॥
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव।वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः॥
नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाः शुभाः।घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः॥
रोहितान्वक्रतुण्डांश्च नडमीनांश्च राघव।पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान्॥
निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्।तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति॥
भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसञ्चये।पद्मगन्धि शिवं वारि सुखशीतमनामयम्॥
उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम्।असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति॥
स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः।अपां लोभादुपावृत्तान्वृषभानिव नर्दतः।रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम॥
सायाह्ने विचरन्राम विटपीन्माल्यधारिणः।शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि॥
सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्।उत्पलानि च फुल्लानि पङ्कजानि च राघव॥
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः।न च वै म्लानतां यान्ति न च शीर्यन्ति राघव॥
मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः।तेषां भाराभितप्तानां वन्यमाहरतां गुरोः॥
ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः।तानि जातानि माल्यानि मुनीनां तपसा तदा।स्वेद-बिन्दुसमुत्थानि न विनश्यन्ति राघव॥
तेषामद्यापि तत्रैव दृश्यते परिचारिणी।श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी॥
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्।दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति॥
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्।आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि॥
न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम्।विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते॥
ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्॥
तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने।नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः॥
ऋश्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः।सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः॥
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः॥
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि।यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति॥
न त्वेनं विषमाचारः पापकर्माधिरोहति॥
यस्तु तं विषमाचारः पापकर्माधिरोहति।तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः॥
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान्।क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्॥
सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः।प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः॥
ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम्।अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम्।निर्वृताः संविगाहन्ते वनानि वनगोचराः॥
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्।रुरूनपेतापजयान्दृष्ट्वा शोकं जहिष्यसि॥
राम तस्य तु शैलस्य महती शोभते गुहा।शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्॥
तस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको ह्रदः।फलमूलान्वितो रम्यो नानामृगसमावृतः॥
तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः।कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते॥
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ।स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्॥ ४२॥
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ।प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके॥
गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च।सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा॥
स तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः।निदर्शयन्राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच॥