भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः।स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत्॥
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम।शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि॥
एषा बाणविनिर्भिन्ना गदा भूमितलं गता।अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी॥
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम्।राक्षसानां करोमीति मिथ्या तदपि ते वचः॥
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः॥प्राणानपहरिष्यामि गरुत्मानमृतं यथा॥
अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम्।विदारितस्य मद्बाणैर्मही पास्यति शोणितम्॥
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः।स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव॥
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने।भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे॥
जनस्थाने हतस्थाने तव राक्षस मच्छरैः।निर्भया विचरिष्यन्ति सर्वतो मुनयो वने॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः।बाष्पार्द्रवदना दीना भयादन्यभयावहाः॥
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः।अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः॥
नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मण-कण्टक।यत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः॥
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे।खरो निर्भर्त्सयामास रोषात्खरतरस्वनः॥
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः।वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे॥
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये।कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः॥
एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः।स ददर्श महासालमविदूरे निशाचरः।रणे प्रहरणस्यार्थे सर्वतोह्यवलोकयन्॥
स तमुत्पाटयामास सन्दश्य दशनच्छदम्॥
तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः।राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्॥
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्।रोषमाहारयत्तीव्रं निहन्तुं समरे खरम्॥
जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः।निर्बिभेद सहस्रेण बाणानां समरे खरम्॥
तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम्।गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः॥
विह्वलः स कृतो बाणैः खरो रामेण संयुगे।मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम्॥
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्।अपासर्पत्प्रतिपदं किंचित्त्वरितविक्रमः॥
ततः पावकसङ्काशं वधाय समरे शरम्।खरस्य रामो जग्राह ब्रह्मदण्डमिवोद्यतम्॥
स तं दत्तं मघवता सुरराजेन धीमता।सन्दधे चापि धर्मात्मा मुमोच च खरं प्रति॥
स विमुक्तो महाबाणो निर्घातसमनिस्वनः।रामेण धनुरायम्य खरस्योरसि चापतत्॥
स पपात खरो भूमौ दह्यमानः शराग्निना।रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्तकः॥
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा।बलो वेन्द्राशनिहतो निपपात हतः खरः॥
ततो राजर्षयः सर्वे सङ्गताः परमर्षयः।सभाज्य मुदिता राममिदं वचनमब्रुवन्॥
एतदर्थं महातेजा महेन्द्रः पाकशासनः।शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः॥
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः।एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम्॥
तदिदं नः कृतं कार्यं त्वया दशरथात्मज।सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः॥
एतस्मिन्नन्तरे देवाश्चारणैः सह सङ्गताः।दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः।रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा॥
अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः।चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्॥
खरदूषणमुख्यानां निहतानि महाहवे।अहो बत महत्कर्म रामस्य विदितात्मनः॥
अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते।इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्॥
एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया।गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी॥
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः।प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः॥
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्।बभूव हृष्टा वैदेही भर्तारं परिषस्वजे॥
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान्हतान्।रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा॥
ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः।पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा॥