तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः॥
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ॥
इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत्।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्॥
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्॥
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्।शनैस्तस्मिन्प्रशान्ते च जनघोषे जनाधिपः।वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्॥
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम्।तदद्य भगवन्सर्वमाज्ञापयितुमर्हसि॥
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः।आदिदेशाग्रतो राज्ञः स्थितान्युक्तान्कृताञ्जलीन्॥
सुवर्णादीनि रत्नानि बलीन्सर्वौषधीरपि।शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी॥
अहतानि च वासांसि रथं सर्वायुधान्यपि।चतुरङ्गबलं चैव गजं च शुभलक्षणम्॥
चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम्।शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्॥
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च।उपस्थापयत प्रातरग्न्यागारं महीपतेः॥
यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम्॥
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः॥
प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम्।द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्॥
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च।आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्॥
सर्वे च तालावचरा गणिकाश्च स्वलङ्कृताः।कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः॥
देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः।उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्॥
दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः।महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम्॥
एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ।चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च॥
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्।यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ॥
ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत्।रामः कृतात्मा भवता शीघ्रमानीयतामिति॥
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्।रामं तत्रानयां चक्रे रथेन रथिनां वरम्॥
अथ तत्र समासीनास्तदा दशरथं नृपम्।प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः॥
म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः।उपासांचक्रिरे सर्वे तं देवा इव वासवम्॥
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः।प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्॥
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्।दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्॥
चन्द्रकान्ताननं राममतीवप्रियदर्शनम्।रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्॥
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः।न ततर्प समायान्तं पश्यमानो नराधिपः॥
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्।पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्॥
स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः।आरुरोह नृपं द्रष्टुं सह सूतेन राघवः॥
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके।नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः॥
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः।गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्॥
तस्मै चाभ्युदितं सम्यङ्मणिकाञ्चनभूषितम्।दिदेश राजा रुचिरं रामाय परमासनम्॥
तदासनवरं प्राप्य व्यदीपयत राघवः।स्वयेव प्रभया मेरुमुदये विमलो रविः॥
तेन विभ्राजता तत्र सा सभाभिव्यरोचत।विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना॥
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्।अलङ्कृतमिवात्मानमादर्शतलसंस्थितम्॥
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः।उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः॥
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः।उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः॥
यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः।तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि॥
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि।गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्॥
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः।कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च॥
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा।अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय॥
कोष्ठागारायुधागारैः कृत्वा सन्निचयान्बहून्।तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्॥
तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः।तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर॥
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः।त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्॥
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च।व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा॥
अथाभिवाद्य राजानं रथमारुह्य राघवः।ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः॥
ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदा लाभमिवेष्टमाशु।नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान्समानर्चुरभिप्रहृष्टाः॥