अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।उपसङ्गृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥
तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह।राघवः शोकेसम्मूढो जननीमभ्यवादयत्॥
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।
अथ मातुः सुमित्राया जग्राह चरणौ पुनः॥
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्॥
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥
व्यसनी वा समृद्धो वा गतिरेष तवानघ।एष लोके सतां धर्मो यज्येष्ठवशगो भवेत्॥
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च॥
लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम्।सुमित्रागच्छ गच्छेति पुनः पुनरुवाच तम्॥
गम्यतामर्थलाभाय क्षेमाय विजयाय च।शत्रुपक्षविनाशाय पुनःसन्दर्शनाय च॥
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।विनीतो विनयज्ञश्च मातलिर्वासवं यथा॥
रथमारोह भद्रं ते राजपुत्र महायशः।क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि॥
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।तान्युपक्रमितव्यानि यानि देव्यासि चोदितः॥
तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा।आरुरोह वरारोहा कृत्वालङ्कारमात्मनः॥
अथो ज्वलनसङ्काशं चामीकरविभूषितम्।तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ॥
वनवासं हि सङ्ख्याय वासांस्याभरणानि च।भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥
तथैवायुधजालानि भ्रातृभ्यां कवचानि च।रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत्॥
सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत्।सुमत्रः सम्मतानश्वान्वायुवेगसमाञ्जवे॥
प्रति याते महारण्यं चिररात्राय राघवे।बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च॥
तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम्।हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम्॥
ततः सबालवृद्धा सा पुरी परमपीडिता।राममेवाभिदुद्राव घर्मार्ता सलिलं यथा॥
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः॥
संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः।मुखं द्रक्ष्याम रामस्य दुर्दशं नो भविष्यति॥
आयसं हृदयं नूनं राममातुरसंशयम्।यद्देवगर्भप्रतिमे वनं याति न भिद्यते॥
कृतकृत्या हि वैदेही छायेवानुगता पतिम्।न जहाति रता धर्मे मेरुमर्कप्रभा यथा॥
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि॥
महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान्।एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि॥
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम्॥
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात्॥
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः।यथा नादः करेणूनां बद्धे महति कुञ्जरे॥
पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तदाभवत्।परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा॥
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।सूतं सञ्चोदयामास त्वरितं वाह्यतामिति॥
रामो याहीति सूतं तं तिष्ठेति स जनस्तदा।उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः॥
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।पतितैरभ्यवहितं प्रशशाम महीरजः॥
रुदिताशुपरिद्यूनं हाहाकृतमचेतनम्।प्रयाणे राघवस्यासीत्पुरं परमपीडितम्॥
सुस्राव नयनैः स्त्रीणामास्रमायाससम्भवम्।मीनसङ्क्षोभचलितैः सलिलं पङ्कजैरिव॥
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।निपपातैव दुःखेन हतमूल इव द्रुमः॥
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्॥
हा रामेति जनाः केचिद्राममातेति चापरे।अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन्॥
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।राजानं मातरं चैव ददर्शानुगतौ पथि॥
स बद्ध इव पाशेन किशोरो मातरं यथा।धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत॥
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम्॥
न हि तत्पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः॥
प्रत्यगारमिवायान्ती वत्सला वत्सकारणात्।बद्धवत्सा यथा धेनू राममाताभ्यधावत॥
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च॥
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।असकृत्प्रेक्षत स तां नृत्यन्तीमिव मातरम्॥
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।सुमत्रस्य बभूवात्मा चक्रयोरिव चान्तरा॥
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥
रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम्।व्रजतोऽपि हयाञ्शीघ्रं चोदयामास सारथिः॥
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम्॥
यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत्।इत्यमात्या महाराजमूचुर्दशरथं वचः॥
तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः।निशम्य राजा कृपणः सभार्यों व्यवस्थितस्तं सुतमीक्षमाणः॥