तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्।राघवो भरतेनोक्तां बभूव गतचेतनः॥
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा।वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः॥
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः।वने परशुना कृत्तस्तथा भुवि पपात ह॥
तथा निपतितं रामं जगत्यां जगतीपतिम्।कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्॥
भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्।रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै॥
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन्।उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम्॥
स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम्।उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम्॥
kiṁ kariṣyāmy ayodhyāyāṁ tāte diṣṭāṁ gatiṁ gatekas tāṁ rāja-varād dhīnām ayodhyāṁ pālayiṣyati
किं नु तस्य मया कार्यं दुर्जातेन महात्मनः।यो मृतो मम शोकेन मया चापि न संस्कृतः॥
अहो भरत सिद्धार्थो येन राजा त्वयानघ।शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः॥
निष्प्रधानामनेकाग्रां नरेन्द्रेण विनाकृताम्।निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे॥
समाप्तवनवासं मामयोध्यायां परंतप।कोऽनु शासिष्यति पुनस्ताते लोकान्तरं गते॥
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्।वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्॥
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः।उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम्॥
सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण।भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्॥
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत।तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम्॥
ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम्।अब्रुवञ्जगतीभर्तुः क्रियतामुदकं पितुः॥
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम्।नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम्॥
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्।उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः॥
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्।जलक्रियार्थं तातस्य गमिष्यामि महात्मनः॥
सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा॥
ततो नित्यानुगस्तेषां विदितात्मा महामतिः।मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान्॥
सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्॥
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्॥
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्।सिषिचुस्तूदकं राज्ञे ततैतत्ते भवत्विति॥
प्रगृह्य च महीपालो जलपूरितमञ्जलिम्।दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत्॥
एतत्ते राजशार्दूल विमलं तोयमक्षयम्।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु॥
ततो मन्दाकिनीतीरात्प्रत्युत्तीर्य स राघवः।पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह॥
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे।न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत्॥
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम्।यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः॥
ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात्।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्॥
ततः पर्णकुटीद्वारमासाद्य जगतीपतिः।परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ॥
तेषां तु रुदतां शब्दात्प्रतिश्रुत्कोऽभवद्गिरौ।भ्रातॄणां सह वैदेह्या सिंहानामिव नर्दताम्॥
महाबलानां रुदतां कुर्वतामुदकं पितुः।विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः॥
अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम्।तेषामेव महाञ्छब्दः शोचतां पितरं मृतम्॥
अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम्।अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः॥
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः॥
अचिरप्रोषितं रामं चिरविप्रोषितं यथा।द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्॥
भ्रातॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम्।ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः॥
सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे।।
तेन वित्रासिता नागाः करेणुपरिवारिताः।आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः॥
वराहवृकसङ्घाश्च महिषाः सर्पवानराः।व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह॥
रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः।तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः॥
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा॥
ततस्तं पुरुषव्याघ्रं यशस्विनमरिंदमम्।आसीनं स्थण्डिले रामं ददर्श सहसा जनः॥
विगर्हमाणः कैकेयीं सहितो मन्थरामपि।अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत्॥
तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान्।पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः॥
स तत्र कांश्चित्परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन्।चकार सर्वान्सवयस्यबान्धवान्यथार्हमासाद्य तदा नृपात्मजः॥
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन्स्वनः।गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे॥