सापनीय तमायासमुपस्पृश्य जलं शुचिः।चकार माता रामस्य मङ्गलानि मनस्विनी॥
न शक्यते वारयितुं गच्छेदानीं रघूत्तम।शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे॥
यं पालयसि धर्मं त्वं धृत्या च नियमेन च।स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च।ते च त्वामभिरक्षन्तु वने सह महर्षिभिः॥
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥
समित्कुशपवित्राणि वेद्यश्चायतनानि च।स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः।पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम॥
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः।स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा॥
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः॥
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥
स्कन्दश्च भगवान्देवः सोमश्च सबृहस्पतिः।सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः॥
याश्चापि सर्वतः सिद्धाःदिशश्च सदिगीश्वराः।स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः॥
शैलाः सर्वे समुद्राश्च राजा वरुण एव च।द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च॥
नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः।अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम्॥
ऋतवश्चैव षट्पुण्या मासाः संवत्सरास्तथा।कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते॥
महावने विचरतो मुनिवेषस्य धीमतः।तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा॥
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।क्रव्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम्॥
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।सरीसृपाश्च कीटाश्च मा भूवन्गहने तव॥
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक॥
नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः।मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह॥
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।सर्वसम्पत्तये राम स्वस्तिमान्गच्छ पुत्रक॥
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः॥
गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्॥
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः।उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन॥
सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः।ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम्॥
इति माल्यैः सुरगणान्गन्धैश्चापि यशस्विनी।स्तुतिभिश्चानुकूलाभिरानर्चायतलोचना॥
ज्वलनं समुपादाय ब्राह्मणेन महात्मना।हावयामास विधिना राममङ्गलकारणात्॥
घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान्।उपसम्पादयामास कौसल्या परमाङ्गना॥
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्॥
मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्विजांस्ततः।वाचयामास रामस्य वने स्वस्त्ययनक्रियाः॥
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्॥
यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा।अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्॥
अमृतोत्पादने दैत्यान्घ्नतो वज्रधरस्य यत्।अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम्॥
त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः।यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्॥
ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते।मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः॥
इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी।गन्धैश्चापि समालभ्य राममायतलोचना॥
ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्।चकार रक्षां कौसल्या मन्त्रैरभिजजाप च॥
उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी।वाङ्मात्रेण न भावेन वाचा संसज्जमानया॥
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम्॥
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि॥
प्रनष्टदुःखसङ्कल्पा हर्षविद्योतितानना।द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम्॥
भद्रासनगतं राम वनवासादिहागतम्।द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥
मङ्गलैरुपसम्पन्नो वनवासादिहागतः।वध्वा मम च नित्यं त्वं कामान्संवर्ध याहि भो॥
मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः।अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव॥
इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि।प्रदक्षिणं चैव चकार राघवं पुनः पुनश्चापि निपीड्य सस्वजे॥
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः।जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितः स्वया श्रिया॥