प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः।अथ राजा दशरथः स चिन्तामभ्यपद्यत॥
रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम्।आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम्॥
सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः।विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः॥
स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम्।अर्धरात्रे दशरथः संस्मरन्दुष्कृतं कृतम्॥
स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः।कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत्॥
यदाचरति कल्याणि शुभं वा यदि वाशुभम्।तदेव लभते भद्रे कर्ता कर्मजमात्मनः॥
गुरुलाघवमर्थानामारम्भे कर्मणां फलम्।दोषं वा यो न जानाति स बाल इति होच्यते॥
कश्चिदाम्रवणं छित्वा पलाशांश्च निषिञ्चति।पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे॥
अविज्ञाय फलं यो हि कर्म त्वेवानुधावति।स शोचेत्फलवेलायां यथा किंशुकसेचकः॥
सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम्।रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः॥
लब्धशब्देन कौसल्ये कुमारेण धनुष्मता।कुमारः शब्दवेधीति मया पापमिदं कृतम्॥
तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम्।संमोहादिह बालेन यथा स्याद्भक्षितं विषम्॥
यथान्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत्।एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम्॥
देव्यनूढा त्वमभवो युवराजो भवाम्यहम्।ततः प्रावृडनुप्राप्ता मदकामविवर्धनी॥
उपास्य हि रसान्भौमांस्तप्त्वा च जगदंशुभिः।परेताचरितां भीमां रविराविशते दिशम्॥
उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः।ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः॥
क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्रिणः।वृष्टिवातावधूताग्रान्पादपानभिपेदिरे॥
पतितेनाम्भसा च्छन्नः पतमानेन चासकृत्।आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः॥
पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि।सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत्॥
आकुलारुणतोयानि स्रोतांसि विमलान्यपि।उन्मार्गजलवाहीनि बभूवुर्जलदागमे॥
तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी।व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम्॥
निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम्।अन्यं वा श्वापदं कञ्चिज्जिघांसुरजितेन्द्रियः॥
तस्मिंस्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः।तत्राहं संवृतं वन्यं हतवांस्तीरमागतम्।अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाभ्युपागतम्॥
अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः।अचक्षुर्विषये घोषं वारणस्येव नर्दतः॥
ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम्।शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम्॥
अमुञ्चं निशितं बाणमहमाशीविषोपमम्।तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः।हाहेति पततस्तोये बाणाभिहतमर्मणः॥
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी।कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि॥
प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः।इषुणाभिहतः केन कस्य वा किं कृतं मया॥
ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः।कथं नु शस्त्रेण वधो मद्विधस्य विधीयते॥
जटाभारधरस्यैव वल्कलाजिनवाससः।को वधेन ममार्थी स्यात्किं वास्यापकृतं मया॥
एवं निष्फलमारब्धं केवलानर्थसंहितम्।न कश्चित्साधु मन्येत यथैव गुरुतल्पगम्॥
नाहं तथानुशोचामि जीवितक्षयमात्मनः।मातरं पितरं चोभावनुशोचामि मद्वधे॥
तदेतन्मिथुनं वृद्धं चिरकालभृतं मया।मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति॥
वृद्धौ च मातापितरावहं चैकेषुणा हतः।केन स्म निहताः सर्वे सुबालेनाकृतात्मना।।
तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः।कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि॥
तस्याहं करुणं श्रुत्वा निशि लालपतो बहु।संभ्रान्तः शोकवेगेन भृशमासं विचेतनः॥
तं देशमहमागम्य दीनसत्वः सुदुर्मनाः।अपश्यमिषुणा तीरे सरय्वास्तापसं हतम्॥
अवकीर्णजटाभारं प्रविद्धकलशोदकम्।पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम्॥
स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम्।इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा॥
किं तवापकृतं राजन्वने निवसता मया।जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया॥
एकेन खलु बाणेन मर्मण्यभिहते मयि।द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे॥
तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ।चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः॥
न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा।पिता यन्मां न जानाति शयानं पतितं भुवि॥
जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः।भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम्॥
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव।न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः॥
इयमेकपदी राजन्यतो मे पितुराश्रमः।तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत्॥
विशल्यं कुरु मां राजन्मर्म मे निशितः शरः।रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा॥
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति।इति मामविशच्चिन्ता तस्य शल्यापकर्षणे।।
दुःखितस्य च दीनस्य मम शोकातुरस्य च।लक्षयामास हृदये चिन्तां मुनिसुतस्तदा॥
ताम्यमानः स मां कृच्छ्रादुवाच परमार्तवत्।सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम्॥
संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवानघ।ब्रह्महत्याकृतं पापं हृदयादपनीयताम्॥
न द्विजातिरहं राजन्माभूत्ते मनसो व्यथा।शूद्रायामस्मि वैश्येन जातो जनपदाधिप।।
इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः।विघूर्णतो विचेष्टस्य वेपमानस्य भूतले।।
तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम्।स मामुद्वीक्ष्य संत्रस्तो जहौ प्राणांस्तपोधनः॥
जलार्द्रगात्रं तु विलप्य कृच्छ्रान्मर्मव्रणं संततमुच्छ्वसन्तम्।ततः सरय्वां तमहं शयानं समीक्ष्य भद्रेऽस्मि भृशं विषण्णः॥