शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलङ्कृतम्।
तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम्॥
रुदितं व्यपमृष्टास्रं चन्द्रवत्प्रियदर्शनम्।
सुनासं चारु ताम्रोष्ठमाकाशे हाटकप्रभम्॥
राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम्।
शुशुभे न विना रामं दिवा चन्द्र इवोदितः॥