ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम्। गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्॥
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्। सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः॥
ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह। जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्॥
तमागतं वेदविदं प्राञ्जलिः सीतया सह। सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्॥
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः। सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि॥
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्। सुयज्ञं स तदोवाच रामः सीताप्रचोदितः॥
हारं च हेमसूत्रं च भार्यायै सौम्य हारय। रशनां चाधुना सीता दातुमिच्छति ते सखे॥
अङ्गदानि विचित्राणि केयूराणि शुभानि च। प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम्॥
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्। तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि॥
नागः शत्रुञ्जयो नाम मातुलो यं ददौ मम। तं ते गजसहस्रेण ददामि द्विजपुङ्गव॥
इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत्। रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः॥
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः। सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्॥
आगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ। अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः॥
तर्पयस्व महाबाहो गोसहस्रैश्च मानद। सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः॥
कौसल्यां च यआशीर्भिर्भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्॥
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय। कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः॥
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः। तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा। पशुकाभिश्च सर्वाभिर्गवां दशशतेन च॥
ये चेमे कठकालापा बहवो दण्डमाणवाः। नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किञ्चन॥
अलसाः स्वादुकामाश्च महतां चापि सम्मताः। तेषामशीतियानानि रत्नपूर्णानि दापय॥
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा। व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु॥
मेखलीनां महासङ्घः कौसल्यां समुपस्थितः। तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय॥
अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम्। तथा द्विजातींस्तान्सर्वाँल्लक्ष्मनार्चय सर्वशः॥
ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम्। यथोक्तं ब्राह्मनेन्द्राणामददाद्धनदो यथा॥
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः। सम्प्रदाय बहु द्रव्यमेकैकस्योपजीवनम्॥
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम। अशून्यं कार्यमेकैकं यावदागमनं मम॥
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्। उवाचेदं धनाध्यक्षं धनमानीयतामिति॥
ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः। स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत॥
ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः। द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्॥
तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः। उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली॥
तं वृद्धं तरुणी भार्या बालानादाय दारकान्। अब्रवीद्ब्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता॥
अपास्य फालं कुद्दालं कुरुष्व वचनं मम। रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि॥
भार्याया वचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्। स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्॥
भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि। आ पञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत्॥
स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत्। निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः। उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति॥
तमुवाच ततो रामः परिहाससमन्वितम्॥
गवां सहस्रमप्येकं न तु विश्राणितं मया। परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि॥
स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्। आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः॥
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः। गोव्रजे बहुसाहस्रे पपातोक्षाणसन्निधौ॥
तं परिष्वज्य धर्मात्मा आ तस्मात्सरयूतटात्। आनयामास ता गोपैस्त्रिजटस्याश्रमं प्रति॥
उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन्। मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम॥
इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया। इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति॥
ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात्। भवत्सु सम्यक्प्रतिपादनेन तन्मयार्जितं प्रीतियशस्करं भवेत्॥
ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः। यशोबलप्रीतिसुखोपबृंहणीस्तदाशिषः प्रत्यवदन्महात्मनः॥
स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम्। नियोजयामास सुहृज्जनेऽचिराद्यथार्हसम्मानवचःप्रचोदितः॥
द्विजः सुहृद्भृत्यजनोऽथ वा तदा दरिद्रभिक्षाचरणश्च योऽभवत्। न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः॥