जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि।ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा॥
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम्।भ्रातरं भरतं रामः परिजग्राह बाहुना॥
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः।अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः॥
क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि॥
चिरस्य बत पश्यामि दूराद्भरतमागतम्।दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः॥
कच्चिद्धारयते तात राजा यत्त्वमिहागतः।कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः॥
कच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम्॥
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम्॥
कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः।राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः॥
स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते॥
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती।सुखिनी कच्चिदार्या च देवी नन्दति कैकयी॥
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः।हुतं च होष्यमाणं च काले वेदयते सदा॥
कच्चिद्देवान्पितॄन्मातॄर्गुरून्पितृसमानपि।वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे॥
इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम्।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे॥
कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः॥
मन्त्रो विजयमूलं हि राज्ञां भवति राघव।सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः॥
कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे।कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम्॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति॥
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्।क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव॥
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः।विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः॥
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः।त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम्॥
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम्।पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत्॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः।अथवाप्ययुतान्येव नास्ति तेषु सहायता॥
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम्॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः।जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः॥
अमात्यानुपधातीतान्पितृपैतामहाञ्छुचीन्।श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम्।राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः॥
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम्।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते॥
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्छुचिः।कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः॥
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः॥
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्।संप्राप्तकालं दातव्यं ददासि न विलम्बसे॥
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः।भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः॥
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः।कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः॥
कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान्।यथोक्तवादी दूतस्ते कृतो भरत पण्डितः॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः॥
कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा।दुर्बलाननवज्ञाय वर्तसे रिपुसूदन॥
कच्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे।अनर्थकुशला ह्येते बालाः पण्डितमानिनः॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते॥
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः।सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम्॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा।जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः॥
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्।कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि॥
कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः।देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः॥
प्रहृष्टनरनारीकः समाजोत्सवशोभितः।सुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः॥
अदेवमातृको रम्यः श्वापदैः परिवर्जितः।परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः॥
विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः।कच्चिज्जनपदः स्फीतः सुखं वसति राघवः॥
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः।वार्तायां संश्रितस्तात लोको हि सुखमेधते॥
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः॥
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः।कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे॥
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः।कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि।।
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्।उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे॥
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया।सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम्॥
कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः॥
आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव॥
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः॥
कच्चिदार्यो विशुद्धात्माक्षारितश्चोरकर्मणा।अपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः॥
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ।।
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव।अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः॥
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव।तानि पुत्रपशून्घ्नन्ति प्रीत्यर्थमनुशासतः॥
कच्चिद्वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव।दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे॥
कच्चिद्गुरूंश्च वृद्धांश्च तापसान्देवतातिथीन्।चैत्यांश्च सर्वान्सिद्धार्थान्ब्राह्मणांश्च नमस्यसि॥
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः।उभौ वा प्रीतिलोभेन कामेन च न बाधसे॥
कच्चिदर्थं च धर्मं च कामं च जयतांवर।विभज्य काले कालज्ञ सर्वान्वरद सेवसे॥
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः।आशंसन्ते महाप्राज्ञ पौरजानपदैः सह॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्॥
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्।निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्॥
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः।कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश॥
दश पञ्च चतुर्वर्गान्सप्तवर्गं च तत्त्वतः।अष्टवर्गं च त्रिवर्गं विद्यास्तिस्रश्च राघव॥
इन्द्रियाणां जयं बुद्ध्वा षाड्गुण्यं दैवमानुषम्।कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम्॥
यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ।कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे॥
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा।कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः।कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्॥
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव।आयुष्या च यशस्या च धर्मकामार्थसंहिता॥
यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः।तां वृत्तिं वर्तसे कच्चिद्या च सत्पथगा शुभा॥
कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव।कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि॥
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम्।अवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान्॥