इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः।
औदुंबरं भद्रपीठमभिषेकार्थमाहृतम्॥
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।
चतुरश्वो रथः श्रीमान्निस्त्रिंशो धनुरुत्तमम्॥
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम्।
श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः॥
हेमदामपिनद्धश्च ककुद्मान्पाण्डुरो वृषः।
केसरी च चतुर्दंष्टो हरिश्रेष्ठो महाबलः॥
सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः।
सर्ववादित्रसङघाश्च वेश्याश्चालङ्कताः स्त्रियः॥
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह॥
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः।
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः॥