अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्।ददर्शाश्रममागम्य खरः सह पुरःसरैः॥
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिःस्वनम्।रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्॥
स खरस्याज्ञया सूतस्तुरगान्समचोदयत्।यत्र रामो महाबाहुरेको धुन्वन्स्थितो धनुः॥
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः।नर्दमाना महानादं सचिवाः पर्यवारयन्॥
स तेषां यातुधानानां मध्ये रथगतः खरः।बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः॥
ततः शरसहस्रेण राममप्रतिमौजसम्।अर्दयित्वा महानादं ननाद समरे खरः॥
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः। रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्॥
मुद्गरैः पट्टिशैः शूलैः प्रासैः खङ्गैः परश्वधैः। राक्षसाः समरे रामं निजघ्नू रोषतत्पराः॥
ते वलाहकसङ्काशा महानादा महौजसः।अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च।गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः॥
ते रामे शरवर्षाणि व्यसृजन्रक्षसां गणाः।शैलेन्द्रमिव धाराभिर्वर्षमाणा वलाहकाः॥
स तैः परिवृतो घोरै राघवो रक्षसां गणैः॥
तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः।प्रतिजग्राह विशिखैर्नद्योघानिव सागरः॥
स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे।रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः॥१३
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः।बभूव रामः सन्ध्या भ्रैर्दिवाकर इवावृतः॥
विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः।एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्॥
ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः।ससर्ज विशिखान्बाणाञ्शतशोऽथ सहस्रशः॥
दुरावारान्दुर्विषहान्कालदण्डोपमान्रणे।मुमोच लीलया रामः कङ्कपत्रानजिह्मगान्॥
ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया।आददू रक्षसां प्राणान्पाशाः कालकृता इव ॥
भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः।अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः॥
असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात्।विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः॥
तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च।बाहून्सहस्ताभरणानूरून्करिकरोपमान्।चिच्छेद रामः समरे शतशोऽथ सहस्रशः॥
हयान्काञ्चनसन्नाहान्रथयुक्तान्ससारथीन्।गजांश्च सगजारोहान्सहयान्सादिनस्तथा।चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः॥
पदातीन्समरे हत्वा ह्यनयद्यमसादनम्॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः॥
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः।रामेण न सुखं लेभे शुष्कं वनमिवाग्निना॥
केचिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान्।रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥
तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राधवः।जहार समरे प्राणांश्चिच्छेद च शिरोधरान्॥
ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः।सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा॥
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः। खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः॥
तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः।अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः॥
निवृत्तास्तु पुनः सर्वे दूषणाश्रय॑निर्भयाः।राममेवाभ्यधावन्त सालतालशिलायुधाः॥
शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः।सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे।द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः॥
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्।रामस्य च महाघोरं पुनस्तेषां च रक्षसाम्॥
ते समन्तादभिक्रुद्धा राघवं पुनरभ्ययुः॥
तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः।राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः॥
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्।संयोजयत गान्धर्वं राक्षसेषु महाबलः॥
ततः शरसहस्राणि निर्ययुश्चापमण्डलात्।सर्वा दश दिशो बाणैरावार्यन्त समागतैः॥
नाददानं शरान्घोरान्न मुञ्चन्तं शिलीमुखान्।विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः॥
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः।सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्॥
शरान्धकारमाकाशमावृणोत्सदिवाकरम्।बभूवावस्थितो रामः प्रवमन्निव ताञ्शरान्॥
युगपत्पतमानैश्च युगपच्च हतैर्भृशम्।युगपत्पतितैश्चैव विकीर्णा वसुधाभवत्॥
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः।तत्रतत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः॥
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा।ऊरुभिर्जानुभिश्छिनैर्नानारूपविभूषणैः॥
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः।चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि॥
रामस्य बाणाभिहतैर्विचित्रैः शूलपट्टिशैः।खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः॥
चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः।विच्छिन्नैः समरे भूमिर्विकीर्णाभूद्भयङ्करा॥
तान्दृष्ट्वा निहतान्सर्वे राक्षसाः परमातुराः।न तत्र चलितुं शक्ता रामं परपुरंजयम्॥
बलावशेषं तु निरस्तमाहवे खराधिकमं राक्षसदुर्बलं बलम्।जघान रामः स्थिरधर्मपौरुषो धनुर्बलैरप्रतिवारणैः शरैः॥