एवमुक्ता तु कैकेयी कोपेन ज्वलितानना।दीर्घमुष्णं विनिश्वस्य मथरामिदमब्रवीत्॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्।यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये॥
इदं त्विदानीं संपश्य केनोपायेन मन्थरे।भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्॥
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि॥
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि।श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम्॥
श्रुत्वेदं वचनं तस्या मन्थरायास्तु कैकयी।किञ्चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्॥
कथय त्वं ममोपायं केनोपायेन मन्थरे।भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्॥
तव दैवासुरे युद्धे सह राजर्षिभिः पतिः।अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्॥
दिशमास्थाय वै देवि दक्षिणां दण्डकान्प्रति।वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः॥
स शम्बर इति ख्यातः शतमायो महासुरः।ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः॥
तस्मिन्महति सङ्ग्रामे पुरुषान्क्षतविक्षतान्।रात्रौ प्रसुप्तान्घ्नन्ति स्म तरसासाद्य राक्षसाः॥
तत्राकरोन्महद्युद्धं राजा दशरथस्तदा।असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः॥
अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः।तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया॥
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने॥
स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ।गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना॥
अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा।कथैषा तव तु स्नेहान्मनसा धार्यते मया॥
रामाभिषेकसम्भारान्निगृह्य च निवर्तय।तौ वरौ याच भर्तारं भरतस्याभिषेचनम्।प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति॥
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी॥
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः।रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा॥
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः।त्वत्कृते स महाराजो विशेदपि हुताशनम्॥
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्।तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्॥
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः।मन्दस्वभावे बुद्धस्व सौभाग्यबलमात्मनः॥
मणिमुक्तं सुवर्णानि रत्नानि विविधानि च।दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः॥
यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात्।तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत्॥
यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः।व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्॥
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च।भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः॥
रामप्रव्राजनं चैव देवि याचस्व तं वरम्।एवं सिध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि॥
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति।भरतश्च हतामित्रस्तव राजा भविष्यति॥
येन कालेन रामश्च वनात्प्रत्यागमिष्यति।तेन कालेन पुत्रस्ते कृतमूलो भविष्यति।सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान्॥
प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा।रामाभिषेकसम्भारान्निगृह्य विनिवर्तय॥
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया।हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्॥
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता।कैकेयी विस्मयं प्राप्ता परं परमदर्शना॥
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम्।पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये॥
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी।नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्॥
सन्ति दुस्संस्थिताः कुब्जा वक्राः परमपापिकाः।त्वं पद्ममिव वातेन संनता प्रियदर्शना॥
उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम्।अधस्ताच्चोदेरं शातं सुनाभमिव लज्जितम्॥
परिपूर्णं तु जघनं सुपीनौ च पयोधरौ।विमलेन्दुसमं वक्रमहो राजसि मन्थरे॥
जघनं तव निर्घुष्टं रशनादमशोभितम्।जङ्घे भृशमुपन्यस्ते पादौ चाप्ययतावुभौ॥
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी।अग्रतो मम् गच्छन्ती राजहंसीव राजसे॥
आसन्याश्शंबरे मायाः सहस्रमसुराधिपे।सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः॥
तवेदं स्थगु यद्दीर्घ रथघोणमिवायतम्।मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते॥
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्।अभिषिक्ते च भरते राघवे च वनं गते॥
जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे।लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु॥
मुखे च तिलकं चित्रं जातरूपमयं शुभम्।कारयिष्यामि ते कुब्जे शुभान्याभरणानि च॥
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि॥
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना।गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम्॥
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम॥
इति प्रशस्यमानाः सा कैकेयीमिदमब्रवीत्।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव॥
गतोदके सेतुबन्धो न कल्याणि विधीयते।उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय॥
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना।अवमुच्य वरार्हाणि शुभान्याभरणानि च॥
ततो हेमोपमा तत्र कुब्जावाक्यवशं गता।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्॥
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि।वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम्॥
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥
अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः।उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्॥
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्यसे।अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते॥
तथाऽतिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः।निधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जा कुपिता पुनःपुनः॥
यमस्य वा मां विषयं गतामितो निशाम्य कुब्जे प्रतिवेदयिष्यसि।वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति॥
अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्।न किंचिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम्॥
अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी।असंवृतामास्तरणेन मेदिनीं तदाऽधिशिश्ये पतितेव किन्नरी॥
उदीर्णसंरंभतमोवृतानना तथाऽवमुक्तोत्तममाल्यभूषणा।नरेन्द्रपत्नी विमला बभूव सा तमोवृता द्यौरिव मग्नतारका॥