दीर्घकालात्समुत्थाय संज्ञां लब्ध्वा च वीर्यवान्।नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम्।सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत्॥
राज्यं न कामये जातु मन्त्रये नापि मातरम्।अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः।विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम्॥
वनवासं न जानामि रामस्याहं महात्मनः।विवासनं वा सौमित्रेः सीतायाश्च यथाभवत्॥
तथैव क्रोशतस्तस्य भरतस्य महात्मनः।कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्॥
आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः।तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्॥
एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा।प्रतस्थे भरतो यत्र वेपमाना विचेतना॥
स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा।प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्॥
ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ।पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम्।रुदन्तौ रूदतीं दुःखात्समेत्यार्यां मनस्विनीम्॥
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता॥
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्।सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा॥
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्।कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी॥
क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति।हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः॥
अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम्।अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः॥
कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि।यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः॥
इदं हि तव विस्तीर्णं धनधान्यसमाचितम्।हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया॥
इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्सितोऽनघः।विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना॥
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः।विलप्य बहुधासंज्ञो लब्धसंज्ञस्ततः स्थितः॥
एवं विलपमानां तां भरतः प्राञ्जलिस्तदा।कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्॥
आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम्।विपुलां च मम प्रीतिं स्थिरां जानासि राघवे॥
कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन।सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः॥
प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु।हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः॥
कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्।अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः॥
परिपालयमानस्य राज्ञो भूतानि पुत्रवत्।ततस्तं द्रुह्यतां पापं यस्यार्योऽनुमते गतः॥
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः।अधर्मो योस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः॥
संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्।तां विप्रलपतां पापं यस्यार्योऽनुमते गतः॥
हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले।मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः॥
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता।स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः॥
मा च तं व्यूढबाह्वंसं चन्द्रार्कसमतेजसम्।द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमते गतः॥
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः।गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः॥
गाश्च स्पृशतु पादेन गुरून्परिवदेत्स्वयम्।मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः॥
विश्वासात्कथितं किञ्चित्परिवादं मिथः क्वचित्।विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः॥
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः।लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः॥
पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः।स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः॥
अप्राप्य सदृशान्दाराननपत्यः प्रमीयताम्।अनवाप्य क्रियां धर्म्यां यस्यार्योऽनुमते गतः॥
मात्मनः सन्ततिं द्राक्षीत्स्वेषु दारेषु दुःखितः।आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः॥
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते।भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्॥
लाक्षया मधुमांसेन लोहेन च विषेण च।सदैव विभृयाद्भृत्यान्यस्यार्योऽनुमते गतः॥
सङ्ग्रामे समुपोढे स्म शतपक्षभयङ्करे।पलायमानो वध्येत यस्यार्योऽनुमते गतः॥
कपालपाणिः पृथिवीमटतां चीरसंवृतः।भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः॥
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः।कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः॥
मा स धर्मे मनो भूयादधर्मं सुनिषेवताम्।अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः॥
सञ्चितान्यस्य वित्तानि विविधानि सहस्रशः।दस्युभिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः॥
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते।तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः॥
यदग्निदायके पापं यत्पापं गुरुतल्पगे।मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्॥
देवतानां पितॄणां च मातापित्रोस्तथैव च।मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः॥
सतां लोकात्सतां कीर्त्यात्सञ्जुष्टात्कर्मणस्तथा।भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः॥
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम्।दीर्घबाहुर्महावक्षा यस्यार्योऽनुमते गतः॥
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः।स भूयात्सततं क्लेशी यस्यार्योऽनुमते गतः॥
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम्।अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः॥
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः।राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः॥
ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम्।अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः॥
धर्मदारान्परित्यज्य परदारान्निषेवताम्।त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः॥
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत्।तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः॥
पानीयदूषके पापं तथैव विषदायके।यत्तदेकः स लभतां यस्यार्योऽनुमते गतः॥
ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः।बालवत्सां च गां दोग्धु यस्यार्योऽनुमते गतः॥
तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत्।लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः॥
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः।तस्य पापेन युज्येत यस्यार्योऽनुमते गतः॥
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः।एवमाश्वासयन्नेव दुःखार्तो निपपात ह॥
तथा तु शपथैः कष्टैः शपमानमचेतनम्।भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत्॥
मम दुःखमिदं पुत्र भूयः समुपजायते।शपथैः शपमानो हि प्राणानुपरुणत्सि मे॥
दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः।वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि॥
इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम्।परिष्वज्य महाबाहुं रुरोद भृशदुःखिता॥
एवं विलपमानस्य दुःखार्तस्य महात्मनः।मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः॥
लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ।मुहुर्मुहुर्निश्वसतश्च धर्मं सा तस्य शोकेन जगाम रात्रिः॥