स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः। अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह॥
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली। रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया॥
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः। अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः॥
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्। द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः। तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्॥
स प्रविश्य मुनिश्रेष्ठं तपसा ढुष्प्रधर्षणम्। कृताञ्जलिरुवाचेदं रामागमनमञ्जसा।यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः॥
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च। प्रविष्टावाश्रमपदं सीत्या सह भार्यया॥
द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ। यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि॥
ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्। वैदेहीं च महाभागामिदं वचनमब्रवीत्॥
दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः। मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति॥
गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः। प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः॥
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना। अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः॥
ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत्। क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्॥
ततो गत्वाश्रमद्वारं शिष्येण सह लक्ष्मणः। दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्॥
तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन्। प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम्॥
प्रविवेश ततो रामः सीतया सह लक्ष्मणः।प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्॥
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च। विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः॥
सोमस्थानं भगस्थानं स्थानं कौवेरमेव च।धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च॥
नगराजस्य च स्थानमनन्तस्य महात्मनः। स्थानं तथैव गायत्र्या वसूनां स्थानमेव च॥
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः। कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति॥
ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्।तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्॥
अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्।एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः।औदार्येणावगच्छामि निधानं तपसामिमम्॥
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्।जग्राह परमप्रीतस्तस्य पादौ परंतपः॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः।सीतया सह वैदेह्या तदा रामः सलक्ष्मणः॥
प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः।कुशलप्रश्नमुक्त्वा च ह्यास्यतामिति चाब्रवीत्॥
अग्निं हुत्वा प्रदायार्घ्यमतिथीन्प्रतिपूज्य च।वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ॥
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः।उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्॥
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत्।अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्।दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्॥
राजा सर्वस्य लोकस्य धर्मचारी महारथः।पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः॥
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम्।पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्॥
इदं दिव्यं महच्चापं हेमरत्नविभूषितम्।वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा।अमोघः सूर्यसङ्काशो ब्रह्मदत्तः शरोत्तमः॥
दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ।संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः॥
महारजतकोशोऽयमसिर्हेमविभूषितः॥
अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान्।आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्॥
तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद।जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा॥
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्।दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्॥
सुखं स्वप महाबाहो ससीतः सहलक्ष्मणः।रविरस्तंगतः सौम्य सन्ध्याकालोऽप्युपागमत्॥
एते निशाचरा राम निलीना मृगपक्षिणः।नगाग्रेषु भृशं लीना दृश्यन्ते सुसमाहिताः।नैशेन तमसा व्याप्तमप्रकाशं नभस्स्थलम्॥
एवमुक्तो महाबाहुरगस्त्येन महात्मना।उपास्य पश्चिमां सन्ध्यां रामः सौमित्रिणा सह॥
अभिवाद्य महात्मानमगस्त्यमृषिसत्तमम्। सुष्वाप रजनीमेकां पूजितः परमर्षिणा॥
सुखोषितस्तदा रामः सन्ध्यामन्वास्य सानुजः।कृतपूर्वाह्णिकस्तस्थौ स्नात्वा हुतहुताशनः॥
लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः।उपागच्छदमेयात्मा अगस्त्यं सूर्यवर्चसम्॥
स दृष्ट्वा राघवं श्रीमानगस्त्यः संयताञ्जलिम्।प्रतिपूज्य यथान्यायमिदं वचनमब्रवीत्॥
कच्चित्सुखा निशा राम व्यतीता रघुनन्दन। तव सभ्रातृभार्यस्य ममाश्रमपदे शुभे॥
अगस्त्येनैवमुक्तस्तु काकुत्स्थो वाक्यमब्रवीत्।मानिताः स्म यथान्यायं त्वया पूज्येन पूजिताः॥
शयनासनदानेन भोजनाच्छादनैः शुभैः।राज्ञो दशरथस्यैव पुरस्यान्तःपुरे यथा।सुखोषिताः स्म भगवन्सर्वकामैरुपस्थिताः॥
सुखोपविष्टे रामे तु सहसीते सलक्ष्मणे।स तेन ऋषिसङ्घेन अगस्त्यो वाक्यमब्रवीत्॥
कालोऽयं गतभूयिष्ठो यः कालस्तव राघव।समयो यो नरेन्द्रेण कृतो दशरथेन ते।तीर्णप्रतिज्ञः काकुत्स्थ सुखं राम निवत्स्यसि॥
धन्यस्ते जनको राम स राजा रघुनन्दन।यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः॥
एवमुक्तस्ततो रामः प्रत्युवाच कृताञ्जलिः।प्रीतः प्रीततरं वाक्यं प्रत्युवाच महायशाः॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव।प्रीयमाणस्तु सुप्रीतो नास्ति धन्यतरो मम॥
मया न तारितो राजा स्वगुणैरेव तारितः।स्वर्गं दशरथः प्राप्तः स्वकृतैः पुण्यकर्मभिः॥
अयं तु देशो निखिलः सर्व एव महातपः।अशरण्यः शरण्योऽभूद्यथैव विनिवेशितः।तथाख्याह्यर्थतत्त्वेन परं कौतूहलं मम॥
O greatly austere sage, all of this place in its entirety was unfit for residence. Tell [Me] the facts regarding how it was built [and made into] a place fit for residence. I am very curious.
शृणु राघव तत्त्वेन देशस्यास्य यथातथम्॥
दण्डकेन परित्यक्तो ह्ययं देशो महात्मना।भार्गवस्य च शापेन निर्मनुष्यमृगोऽभवत्॥
वृक्षगुल्मलताहीनं तापसैरभिवर्जितम्।कान्तारमभवत्तात घोरं परमदारुणम्।योजनार्धसहस्रं तु विन्ध्यपादस्तु दक्षिणः॥
नानुवर्षति पर्जन्यो नानुवाति सुखोऽनिलः।रक्षःप्रतिभयं घोरमासीत्परमदारुणम्॥
बहून्यब्दसहस्राणि ह्येतदासीदमानुषम्।गन्धर्वैर्ऋषिसङ्घैश्च देवैश्च परिवर्जितम्॥
कस्य चित्त्वथ कालस्य दैवयोगादहं नृप।हिमवच्छिखराद्देशादिह प्राप्तोऽस्मि मानद॥
ततो मया समाहूतः पर्जन्यो जलदैः सह।स्वच्छन्दवर्षश्च कृतः कंचित्कालमरिन्दम॥
यमस्य चैव चारास्तु बहून्यब्दशतानि वै।तेजसा मृत्युभूताश्च व्याधयश्च निराकृताः॥
हिमवत्पादजा वृक्षाश्चिन्तिता मनसागताः।प्रवृत्ताश्च पुनर्नद्यः फुल्लपङ्कजमण्डिताः।तटाकानि च रम्याणि सरितश्च सरांसि च॥
प्रवृद्धवनषण्डं तु स्फीतसस्यवनाकुलम्।अचिरेणाभवद्रम्यं सर्षिसङ्घानुसेवितम्॥
केवलं त्वभिशापेन तस्यैव रघुनन्दन।सोपद्रुतमिवाप्येतद्राक्षसैरुग्रकर्मभिः॥
यदाप्रभृति चापि त्वं चित्रकूटमुपागतः।तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्।ऋषीणामभयं वीर दातुमर्हसि मानद॥
अस्माद्धि कारणाद्राम दण्डकारण्यवासिनाम्।त्राणार्थमिह संप्राप्तस्त्रातुमर्हति नो भवान्॥
समर्थो ह्यसि काकुत्स्थ त्रैलोक्यस्यापि रक्षणे।किंपुनर्वीर रक्षांसि द्विजमन्युहतानि वै॥
अयमिक्ष्वाकुपुत्रेण दण्डकेन महाबल।देशो निराकृतो राजञ्शापदोषेण राघव॥
दण्डकारण्यमखिलं दर्शनादेव राघव।शापस्यान्ताय काकुत्स्थ प्राप्तस्त्वमरिमर्दन॥
स त्वं मन्युपरावृत्तैः पितृभिः संनिराकृतम्।तारय त्वं महाबाहो दण्डकारण्यमद्य वै॥
एवमुक्तस्तदा रामः प्रत्युवाच महामुनिम्।आश्चर्यमिदमाख्यातं देशस्यास्य यथातथम्॥
एवमुक्तस्तु रामेण महर्षिस्त्विदमब्रवीत्॥