अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा।पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह॥
तौ पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च।नदीश्च विविधा रम्या जग्मतुः सीतया सह॥
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः। सरांसि च सपद्मानि युक्तानि जलजैः खगैः॥
यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः। महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे।ददृशुः सहिता रम्यं तटाकं योजनायतम्॥
पद्मपुष्करसंबाधं गजयूथैरलङ्कृतम्।सारसैर्हंसकादम्बैः सङ्कुलं जलचारिभिः॥
प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे।गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते॥
ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः।मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे॥
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने।कौतूहलं महज्जातं किमिदं साधु कथ्यताम्॥
वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो॥
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा।प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे॥
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्।निर्मितं तपसा राम मुनिना माण्डकर्णिना॥
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः।दशवर्षसहस्राणि वायुभक्षो जलाश्रयः॥
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः। अब्रुवन्वचनं सर्वे परस्परसमागताः॥
अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः। इति संविग्नमनसः सर्वे ते त्रिदिवौकसः॥
तत्र कर्तुं तपोविघ्नं देवैः सर्वैर्नियोजिताः।प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः॥
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः।नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये॥
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः।तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्॥
तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्।रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्॥
तासां सङ्क्रीडमानानामेष वादित्रनिःस्वनः।श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः॥
आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः।राघवः प्रतिजग्राह सह भ्रात्रा महायशाः॥
एवं कथयमानः स ददर्शाश्रममण्डलम्।कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः।उवास मुनिभिः सर्वैः पूज्यमानो महायशाः॥
तथा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले।उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः॥
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्।येषामुषितवान्पूर्वं सकाशे स महास्त्रवित्॥
क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित्।क्वचिच्च चतुरो मासान्पञ्च षट् चापरान्क्वचित्॥
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित्। त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्॥
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै।रमतश्चानुकूल्येन ययुः संवत्सरा दश॥
परिवृत्य च धर्मज्ञो राघवः सह सीतया।सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह॥
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः।तत्रापि न्यवसद्रामः किंचित्कालमरिंदमः॥
अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम्।उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्॥
अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः।वसतीति मया नित्यं कथाः कथयतां श्रुतम्॥
न तु जानामि तं देशं वनस्यास्य महत्तया।कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः॥
प्रसादात्तत्र भवतः सानुजः सह सीतया।अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्॥
मनोरथो महानेष हृदि मे परिवर्तते।यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्॥
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः।सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्॥
अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्।अगस्त्यमभिगच्छेति सीतया सह राघव॥
दिष्ट्या त्विदानीमर्थेऽस्मिन्स्वयमेव ब्रवीषि माम्।अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः॥
योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः।दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः॥
स्थलीप्राये वनोद्देशे पिपलीवनशोभिते॥बहुपुष्पफले रम्ये नानाशकुनिनादिते॥
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः। हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः॥
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्।दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः॥
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्।रमणीये वनोद्देशे बहुपादपसंवृते॥
रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया। स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः॥
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्।अद्यैव गमने बुद्धिं रोचयस्व महायशः॥
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च।प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह॥
पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान्।सरांसि सरितश्चैव पथि मार्गवशानुगाः॥
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्। इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्॥
एतदेवाश्रमपदं नूनं तस्य महात्मनः।अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः॥
यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः।संनताः फलभारेण पुष्पभारेण च द्रुमाः॥
पिप्पलीनां च पक्वानां वनादस्मादुपागतः।गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः॥
तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः।लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः॥
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्।पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते॥
विविक्तेषु च तीरेषु कृतस्नाना द्विजातयः।पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः॥
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्।अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया।यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा॥
इहैकदा किल क्रूरो वातापिरपि चेल्वलः।भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ॥
धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन्।आमन्त्रयति विप्रान्स्म श्राद्धमुद्दिश्य निर्घृणः॥
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्।तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा॥
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्।वातापे निष्क्रमस्वेति स्वरेण महता वदन्॥
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन्।भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्॥
ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः।विनाशितानि संहत्य नित्यशः पिशिताशनैः॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा।अनुभूय किल श्राद्धे भक्षितः स महासुरः॥
ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः।भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्यभाषत॥
स तं तथा भाषमाणं भ्रातरं विप्रघातिनम्।अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः॥
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः।भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम्॥
अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम्।धर्षयितुमारेभे मुनिं क्रोधान्निशाचरः॥
सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा।चक्षुषानलकल्पेन निर्दग्धो निधनं गतः॥
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः।विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्॥
एवं कथयमानस्य तस्य सौमित्रिणा सह।रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत॥
उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि।प्रविवेशाश्रमपदं तमृषिं सोऽभ्यवादयत्॥
सम्यक्प्रतिगृहीतश्च मुनिना तेन राघवः।न्यवसत्तां निशामेकां प्राश्य मूलफलानि च॥
तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले।भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः॥
अभिवादये त्वां भगवन्सुखमध्युषितो निशाम्।आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्॥
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः।यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्॥
निवारान्पनसांस्तालांस्तिमिशान्वञ्चुलान्धवान्।चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान्॥
पुष्पितान्पुष्पिताग्राभिर्लतभिरनुवेष्टितान्। ददर्श रामः शतशस्तत्र कान्तारपादपान्॥
हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान्।मत्तैः शकुनिसङ्घैश्च शतशश्च प्रणादितान्॥
ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः।पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्॥
स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः।आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः॥
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा।आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः॥
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः।प्रशान्तमृगयूथश्च नानाशकुनिनादितः॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया। दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा॥
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः।दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते॥
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा।तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः॥
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा।प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः॥
मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः।निदेशं पालयन्यस्य विन्ध्यः शैलो न वर्धते॥
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः।अगस्त्यस्याश्रमः श्रीमान्विनीतजनसेवितः॥
एष लोकार्चितः साधुर्हिते नित्यरतः सताम्।अस्मानभिगतानेष श्रेयसा योजयिष्यति॥
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्।शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो॥
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।अगस्त्यं नियताहारं सततं पर्युपासते॥
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः।नृशंसः कामवृत्तो वा मुनिरेष तथाविधः॥
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह। वसन्ति नियताहारा धर्ममाराधयिष्णवः॥
अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः।त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः॥
यक्षत्वममरत्वं च राज्यानि विविधानि च। अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः॥
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः। निवेदयेह मां प्राप्तमृषये सीतया सह॥