ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः।चिन्तामभिसमापेदे मुहूर्तं प्रतताप च॥
किं नु मे यदि वा स्वप्नश्चित्तमोहोऽपि वा मम।अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः।इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम्॥
प्रतिलभ्य चिरात्संज्ञां कैकेयीवाक्यताडितः।व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः॥
असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्।मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः॥
अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः।मोहमापेदिवान्भूयः शोकोपहतचेतनः॥
चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः।कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा॥
नृषंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि।किं कृतं तव रामेण पापे पापं मयापि वा॥
यदा ते जननीतुल्यां वृत्तिं वहति राघवः।तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता॥
त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता।अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा॥
जीवलोको यथा सर्वो रामस्याह गुणस्तवम्।अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्॥
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्।जीवितं वात्मनो रामं न त्वेवं पितृवत्सलम्॥
परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्।अपश्यतस्तु मे रामं नष्टा भवति चेतना॥
तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना।न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्॥
तदलं त्यज्यतामेष निश्चयः पापनिश्चये।अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे॥
किमिदं चिन्तितं पापे त्वया परमदारुणम्॥
अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये।अस्तु यत्त्वया पूर्वं व्याहृतं राघवं प्रति॥
स मे ज्येष्ठः सुतः श्रीमान्धर्मज्येष्ठ इतीव मे।तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्॥
तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्।आविष्टासि गृहं शूण्यं सा त्वं परवशं गता॥
इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्।अनयो नयसम्पन्ने यत्र ते विकृता मतिः॥
न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम।अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम्॥
ननु ते राघवस्तुल्यो भरतेन महात्मना।बहुशो हि सुबाले त्वं कथाः कथयसे मम॥
तस्य धर्मात्मनो देवि वने वासं यशस्विनः।कथं रोचयसे भीरु नव वर्षाणि पञ्च च॥
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः।कथं रोचयसे वासमरण्ये भृशदारुणे॥
रोचयस्यभिरामस्य रामस्य शुभलोचने।तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्॥
रामो हि भरताद्भूयस्तव शुश्रूषते सदा।विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये॥
शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्।कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात्॥
बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्।परिवादोऽपवादो वा राघवे नोपपद्यते॥
सान्त्वयन्सर्वभूतानि रामः शुद्धेन चेतसा।गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः॥
सत्येन लोकाञ्जयति दीनान्दानेन राघवः।गुरूञ्शुश्रूषया वीरो धनुषा युधि शात्रवान्॥
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्।विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे॥
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्।पापमाशंससे रामे महर्षिसमतेजसि॥
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः।स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्॥
क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता।अप्यहिंसा च भूतानां तमृते का गतिर्मम॥
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः।दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि॥
पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते।तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत्॥
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते।शरणं भव रामस्य माधर्मो मामिह स्पृशेत्॥
इति दुःखाभिसन्तप्तं विलपन्तमचेतनम्।घूर्णमानं महाराजं शोकेन समभिप्लुतम्॥
पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः।प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः॥
यदि दत्त्वा वरौ राजन्पुनः प्रत्यनुतप्यसे।धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि॥
यदा समेता बहवस्त्वया राजर्षयः सह।कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि॥
यस्याः प्रसादे जीवामि या च मामभ्यपालयत्।तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि॥
किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप।यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे॥
शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ।अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम्॥
सागरः समयं कृत्वा न वेलामतिवर्तते।समयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन्॥
स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च।सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते॥
भवत्यधर्मो धर्मो वा सत्यं वा यदि वानृतम्।यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः॥
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः।पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते॥
एकाहमपि पश्येयं यद्यहं राममातरम्।अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम॥
भरतेनात्मना चाहं शपे ते मनुजाधिप।यथा नान्येन तुष्येयमृते रामविवासनात्॥
एतावदुक्त्वा वचनं कैकेयी विरराम ह।विलपन्तं च राजानं न प्रतिव्याजहार सा॥
श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम्।रामस्य च वने वासमैश्वर्यं भरतस्य च॥
नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः।प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्॥
तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्।दुःखशोकमयीं घोरां राजा न सुखितोऽभवत्॥
स देव्या व्यवसायं च घोरं च शपथं कृतम्।ध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत्॥
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः।हृततेजा यथा सर्पो बभूव जगतीपतिः॥
दीनया तु गिरा राजा इति होवाच कैकयीम्॥
अनर्थमिममर्थाभं केन त्वमुपदर्शिता।भूतोपहतचित्तेव ब्रुवन्ती माम्न लज्जसे॥
शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा।बालायास्तत्त्विदानीं ते लक्षये विपरीतवत्॥
कुतो वा ते भयं जातं या त्वमेवंविधं वरम्।राष्ट्रे भरतमासीनं वृणीषे राघवं वने॥
विरमैतेन भावेन त्वमेतेनानृतेन वा।यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च॥
नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि।किं नु दुःखमलीकं वा मयि रामे च पश्यसि॥
न कथञ्चिदृते रामाद्भरतो राज्यमावसेत्।रामादपि हि तं मन्ये धर्मतो बलवत्तरम्॥
कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते।मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम्॥
तां हि मे सुकृतां बुद्धि सुहृद्भिः सह निश्चिताम्।कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्॥
किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः।बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्॥
यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः।परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा॥
कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया।यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति॥
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते।किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्॥
यदा यदा हि कौसल्या दासीवच्च सखीव च।भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति॥
सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा।न मया सत्कृता देवी सत्कारार्हा कृते तव॥
इदानीं तत्तपति मां यन्मया सुकृतं त्वयि।अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्॥
विप्रकारं च रामस्य संप्रयाणं वनस्य च।सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति॥
कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्।मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्॥
वैदेही बत मे प्राणाञ्शोचन्ती क्षपयिष्यति।हीना हिमवतः पार्श्वे किंनरेणेव किंनरी॥
न हि राममहं दृष्ट्वा प्रविशन्तं महावने।चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्॥
सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि।न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे॥
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्।रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः॥
अनृतैबहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे।गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः॥
अनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम्।धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा॥
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव।दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम्॥
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता।अज्ञानादुपसंपन्ना रज्जुरुद्वन्धिनी यथा॥
रममाणस्त्वया सार्ध मृत्युं त्वां नाभिलक्षये।बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्॥
मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना।तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति॥
बालिशो बत कामात्मा राजा दशरथो भृशम्।स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति॥
व्रतेश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः।भोगकाले महत्कृच्छं पुनरेव प्रपत्स्यते॥
नालं द्वितीयं वचनं पुत्रो मां प्रति भाषितुम्।स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति॥
यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः।प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति॥
शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः।स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति॥
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्।मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्॥
मृते मयि गते रामे वनं मनुजपुङ्गवे।इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे॥
कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति।दुःखान्यसहती देवी मामेवानु मरिष्यति॥
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह।प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव॥
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः।इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि॥
प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत्।मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः॥
हन्तानार्थे ममामित्रे सकामा भव कैकयि।मृते मयि गते रामे वनं पुरुषपुङ्गवे॥
सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि॥
त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि।अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे।सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा॥
कथं रथैर्विभुर्यात्वा गजाश्चैश्च मुहुर्मुहुः।पद्ध्यां रामो महारण्ये वत्सो मे विचरिष्यति॥
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः।अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम्॥
स कथं नु कषायाणि तिक्तानि कटुकानि च।भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति॥
महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः।काषायपरिधानस्तु कथं भूमौ निवत्स्यति॥
कस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम्।रामस्यारण्यगमनं भरतस्याभिषेचनम्॥
धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा।न ब्रवीमि स्त्रीयः सर्वा भरतस्यैव मातरम्॥
अनर्थभावेऽर्थपेरे नृशंसे ममानुतापाय निविष्टभावे।किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथ वापि रामे॥
परित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः।कृत्स्नं हि सर्वं कुपितं जगत्स्याद्दृष्ट्वैव रामं व्यसने निमग्नम्॥
अहं पुनर्देवकुमाररूपमलङ्कृतं तं सुतमाव्रजन्तम्।नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव॥
विनापि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वापि।रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे॥
विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम्।चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात्॥
मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह।पुरं च राष्ट्रं च निहत्य बान्धवान्ममाहितानां च भवाभिहर्षिणी॥
नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे।न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा॥
न किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्।कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुणनित्यसंमते॥
प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज।न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि॥
क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्।न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्॥
न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतः कुतो रतिः।ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे॥
स भूमिपालो विलपन्ननाथवत्स्रिया गृहीतो हृदयेऽतिमात्रया।पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा॥